Tuesday, April 7, 2009

modern 's sanskrit epics

आधुनिककालस्य महाकाव्यानि (१७००ई.तः अद्यपर्यन्तम्)
१) गणपतिसंभवम्-- (महाकाव्यम्) १९६८। लेखकः-श्री प्रभुदत्त शास्त्री । कथावस्तु -- अस्मिन् महाकाव्ये मूलकथा तु सा एव अस्ति या गणेशविषये पुराणेषु उपलभ्यते, परञ्च अस्मिन् महाकाव्ये मूलकथां स्वीकॄत्य तां कथाम् एव राष्ट्रीयचेतनायाः धारायां समरस: कॄतवान् कविः । अस्य महाकाव्यस्य कथावस्तु नव सर्गेषु विभक्तम् अस्ति , दशमसर्गे कवेः परिचय: अस्ति ।तत्र प्रथमसर्गे हिमगिरिपरिचय: अस्ति ,द्वितीयसर्गे गिरिशगिरिजापरिणय:, ३ योगशक्तिचमत्कृतिः, ४ शस्त्रार्थशस्त्रीभावः ,५ गजमनुजयोजनम्, ६ तान्तैकदन्तप्रसंगः,७ महाभारतलेखाख्यानम्,८ देवमोदकोपहारः, ९ गणशासनोत्कर्ष:,१० काव्यान्तर पुष्पार्पणम् अस्ति ।
२) रूक्मिणीहरणम् (महाकाव्यम्)१९६६।लेखकः पं. काशीनाथद्विवेदी ।कथावस्तु - अस्य महाकाव्यस्य रचना श्रीमद्भागवतमहापुराणस्य दशमस्कन्धस्य उत्तरार्धे आगतां संक्षिप्तरूक्मिणीहरणकथां स्वीकृत्य कृता अस्ति ।अस्मिन् महाकाव्ये रूक्मिण्याः पूर्वरागात् रूक्मिणीहरणपर्यन्तम् कथा अस्ति।अस्मिन् महाकाव्ये २१सर्गाः च २५४७ श्लोका: सन्ति।तत्र प्रथमसर्गे रूक्मिणीवर्णनम्,२ नारदादेशः, ३ रूक्मिणीपूर्वानुराग वर्णनम्,४ षड्ऋतुवर्णनम्,५ रजनीनिशावृढोपालम्मः,६ मूर्च्छाऽभिधः, ८ भीष्मक-सभायां रूक्मिणीविकारः, ९ रूक्मिणीसन्देशः, १० द्वारिकादर्शनम्, ११ रूक्मिणी-धर्म-परीक्षणम्, १२ धर्म, १३ प्रभातवर्णनम्, १४ शिवस्तुतिः १५ श्रीकृष्णयात्रा, १६ कुण्डीनपुर-प्राप्तिः, १७ रूक्मिणीसान्त्वनम्, १८ कुण्डीनपुर-दर्शनम्, १९ रूक्मिरोषः, २० रूक्मिणीहरणम्, २१ द्वारिकाप्राप्तिः अस्ति ।
३)सीताचरितम् (महाकाव्यम्) १९७५। लेखकः श्रीरेवाप्रसाद द्विवेदी। अस्मिन् महाकाव्ये रामस्य राज्यारोहरणात् सीतायाः पातालप्रवेशपर्यन्तम् कथा वर्णिता अस्ति ।अस्मिन् महाकाव्ये १० सर्गाः च ६९४ श्लोकाः सन्ति। तत्र प्रथमे सर्गे राष्टपतिनिर्वाचनम्, २ जानकी कौलीनम्, ३ जानकीपरित्यागः,४ साकेतपरित्यागः,५ कुमारप्रसवः,६ जानकीमुनिवृत्तिः, ७ विद्याधिगमः,८ कुमारायोधनम्, ९ मातृप्रत्यभिज्ञानम्, १० समधिमांगल्यम्
४)गङासागरीयम् (महाकाव्यम्)१९६४। लेखकः श्रीविष्णुदत्तशुक्लः । कथावस्तु - अस्मिन् महाकाव्ये कविः गङामाध्यमेन वर्तमाननारीजागरणं च सागर(हिमवान्) माध्यमेन विश्वशान्त्याःमहानसन्देशस्य प्रसारणं कृतम् अस्ति। अस्मिन् महाकाव्ये नवसर्गाः सन्ति।तत्र प्रथमसर्गे राज्यवर्णनम्,२ कथारम्भः, ३ वरप्रदानम्, ४ गंगाजन्म,५ बाललीला, ६ दूतानुबन्धः,७ उद्योग प्रकरणम्,८ प्रस्थानम्, ९ सागरमिलनम् अस्ति ।
५)श्रीबोधिसत्त्वचरितम् (महाकाव्यम्)१९७३। लेखकः डाँ. सत्यव्रतशास्त्री ।कथावस्तु- ’बोधि’इत्यस्य अर्थःबुद्धत्वज्ञानं च सत्त्वस्य अर्थः प्राणी अस्ति,अतःसम्पूर्णः अर्थः बुद्धत्वप्राप्तौ प्रयत्नशीलःप्राणी अस्ति ।अस्मिन् महाकाव्ये विविधरूपेषु बोधिसत्त्वावदानस्य कथा अस्ति । अस्मिन् महाकाव्ये १४ सर्गाः सन्ति । तत्र चत्वारि सर्गेषु (२ तः ५ पर्यन्तम्) बोधिसत्त्वस्य "राजा" रूपेण, द्वे सर्गे (१ च १३) वणिक् रूपेण च त्रि सर्गे (६,१२,१४)सर्गे क्रमशः भिक्षुः,कृषकः च शिक्षक रूपेण वर्णितम् अस्ति ।
६)शिवराज्योदयम् (महाकाव्यम्)१९७२। लेखकः डाँ.वर्णेकरः। कथावस्तु- अस्मिन् महाकाव्ये छत्रपतिः शिवाजेः वीररसोज्जवलः परमोर्ज्वस्वलचरिते आधारितमस्ति । अस्मिन् महाकाव्ये ६४ सर्गाः सन्ति। तत्र प्रथमसर्गे सह्यमहाराष्ट्रीयम्,२ साधुवर्यद्वयम्,३ बसन्तमांगल्यम्,४ शिवजन्म,५ शिवशिक्षणम्,६ दम्पतीमतभेद,७ राजधानीप्रवास ,८ पारतन्त्रजुगुप्सा,९ स्वातन्त्र प्रतिज्ञा,१० स्वातन्त्र दिनोदय,११ विजययात्रा,१२ शत्रुव्यथा, १३ विपत्तिद्वयाघातः,१४ पितृमोचनम्,१५ यवनराज कौटिल्यम्,१६ स्वराज्य सुधारणा, १७बिजापुरेशस्य विमातुःप्रकोपवेदना,१८ अफझुल्ल प्रतिज्ञा,१९ अफझुल्ल सेनाक्रमणः,२० कान्होजिवीरस्य निश्चयः,२१संग्रामप्रोत्साहनम्, २२ आपदाघाताः,२३ रिपुदूतागमनम्,२४ शिवदूतप्रणायम्,२५ अफजुल्लव्यामोहः,२६ व्यूहरचना,२७ शिवप्रणायम्,२८ सभामण्डपः,२९ अफझुल्लवधः,३० मातृसंतोषः,३१ शिवयशोवर्धनम्, ३२ रुस्तुमफाजलखानयोःपराभवः,३३ जौहराक्रमणम्,३४ श्रृंगापत्तिः,३५ कूटप्रयोगः,३६ महासाहसम्,३७ शत्रुवंदना,३८ वाजिहौताम्यम्,३९ जीवदानम्,४० सूर्यरावमर्दनम्,४१शास्ताखान विमर्दनम्, ४२ सूरतदहनम्,४३ शहाजिनिधनम्,४४ खवासखानमर्दनम्,४५ सिन्धुदुर्ग-निर्माणम्,४६ जयसिंहाभियानम्,४७ घनसंचयः,४८ पुरन्दरयुद्धम् ४९ जयसिंहप्रबोधनम्,५० जयसिंहाभिप्रायः,५१ राष्ट्र्हितोपदेशः,५२ शिवप्रकोपः,५३ निर्वन्धपाशः,५४ बन्धविमोचनम्,५५ मातृपुत्रसमागमः,५६ पुनरुत्थानम्, ५७ स्वराज्यविमोचनम्,५८ सिंहगढविजयः,५९ छत्रसालप्रबोधनम्,६० पर्णालविजयः,६१ प्रतापरावहौतात्म्यम्,६२ गागाभट्टसंकल्पः,६३ भवानीप्रार्थना,६४ राज्याभिषेकारम्भः,६५ शान्तिप्रयोगः,६६,६७,६८ राज्याभिषेकारम्भः अस्ति।
७)क्षत्रपतिचरितम् (महाकाव्यम्)१९७५।लेखकः डाँ.उमाशंकर त्रिपाठी।कथावस्तु- अस्मिन् महाकाव्ये क्षत्रपति शिवाजेः चरित्रस्य वर्णनम्।अस्मिन् महाकाव्ये १९ सर्गाः सन्ति।तत्र पंच सर्गात् नव सर्ग पर्यन्ते अफजलखानस्य अभियानं च तस्य समाप्तेः वर्णनम् अस्ति ।१२ तः १५ पर्यन्तम्-क्षत्रपतेः आगमनम्,दृष्टिपिहितं च ततः कुशलतापूर्वकं स्वराज्यागमनम् अस्ति।
८)श्रीतिलकयशोऽर्णवम्(महाकाव्यम्)१९६९-७१।लेखकःश्रीमाधव अणेः।कथावस्तु-अस्मिन् महाकाव्ये भारतीयस्वातंत्र्यान्दोलनस्य महान् सेनानीः लोकमान्यः श्री बालगंगाधरतिलकस्य समग्रजीवने आधारितमस्ति।अस्मिन् तस्य जीवनावधेःभारतीयस्वातंत्र्यसंगरस्य विधिवत् काव्यात्मकः अभिव्यक्तिः अस्ति ।अस्मिन् महाकाव्ये १२००० पद्याः च ८५ तरंगाः सन्ति। आलोच्य अवधेः इदं सर्वाधिक विशालकायकाव्यमस्ति।अस्य प्रकाशनं खण्डत्रयेषु अभुत्।तत्र प्रथमे १ तः २५ पर्यन्तम् ,द्वितीये २६ तः४१ पर्यन्तम् च तृतीये ४२ तः८५ पर्यन्तं तरंगाः समाविष्टाः सन्ति।
९)सुभाषचरितम्(महाकाव्यम्)१९६३।लेखकःविश्वनाथ केशव छत्रेः।कथावस्तु-अस्मिन् महाकाव्ये १० सर्गाः सन्ति च प्रखरतमस्वतंत्रतासंग्रामसेनानेः नेता श्रीसुभाषचन्द्रबोसस्य जीवनचरितम् वर्णितमस्ति।तत्र प्रथमे उदयः,२ सदगुरुमार्गणम्,३ तेजोदर्शनम्,४ अतुल्यत्यागः,५ देशसेवारम्भः,६ उत्कर्षः,७ अन्तर्धानम्,८ नेतृत्वलाभः,९ स्वातन्त्रसमरः,१० आत्मसमर्पणम् अस्ति।
१०)गान्धिचरितम्(महाकाव्यम्)१९६२।लेखकःश्रीसाधुशरण मिश्र।अस्मिन् महाकाव्ये "गान्धी" महोदयस्य जन्मात् आरभ्य अन्तिमसंस्कार पर्यन्तं घटना वर्णिता अस्ति।अस्य महाकाव्यस्य कथानकं १९सर्गेषु उपनिबद्धम् अस्ति ।
११)श्रीनेहरूचरितम्(महाकाव्यम्)१९६९।लेखकःश्रीब्रम्हानन्द शुक्लः।कथावस्तु -अस्मिन् महाकाव्ये पं. जवाहरलाल नेहरू महोदयस्य जन्मात् आरभ्य निधन पर्यन्तं १८ सर्गेषु निबद्धमस्ति।

Monday, October 13, 2008

think

aversion towards sense objects,absence of ego ,constant reflection on the agony andsuffering inherent in birth,old age,disease, and death